MP Board Class 10th Sanskrit पत्र-लेखन प्रकरण

MP Board Class 10th Sanskrit पत्र-लेखन प्रकरण

१. अवकाश प्रार्थनापत्रम्
(अवकाश के लिए प्रार्थना-पत्र)

सेवायाम्
श्रीमन्तः प्रधानाचार्यमहोदयाः,
राजकीय उच्चतर माध्यमिक विद्यालयः,
इन्दौरनगरम्, मध्यप्रदेशः
विषयः-अवकाशार्थं प्रार्थनापत्रम्

महोदयाः!
सविनयं निवेदनतम् अस्ति यद् अहम् अद्य सहसा ज्वरपीड़ितः अस्मि। अतः विद्यालयम् आगन्तुम् असमर्थः अस्मि। कृपया मम पञ्चदिवसानां (सप्तदिनाङ्कतः-एकादशदिनाङ्कपर्यन्तम्) अवकाशं स्वीकुर्वन्तु।

भवदीय:शिष्यः
कौशलः
कक्षा-दशमी ‘अ’ वर्गः

दिनाङ्क-०७/०८/२०…..

MP Board Solutions

२. छात्रवत्ति-हेतुः आवेदनपत्रम्
(छात्रवृत्ति के लिए आवेदन-पत्र)

प्रतिष्ठायाम्,
माननीयाः प्रधानाचार्यमहोदयाः,
शासकीय-उच्चतर माध्यमिक विद्यालयः,
भिण्डनगरम्,
मध्यप्रदेशः

विषयः-छात्रवत्ति-निमित्तम् आवेदनपत्रम्

महोदयाः!
सविनयं निवेदयामि यत् मम जनकस्य आर्थिकास्थितिः सम्यक् नास्ति। सः मम शिक्षार्थं प्रतिमासं शुल्कं दातुम् असमर्थः अस्ति। अतः श्रीमन्तः मह्यं छात्रवृत्तिं दापयन्तु इति प्रार्थये।

भवतां कृपाकांक्षी
धर्मेन्द्र शर्मा
कक्षा-दशमी ‘स’ वर्गः

दिनाङ्क-१२/०७/२०………………….

३. शुभकानापत्रम्
(शुभकामना पत्र)

भोपालतः
दिनाङ्क-२०-०७-२०….

प्रियवर्याः राजेशमहोदयात!
जयतु संस्कृतम्,

आशा अस्ति भवन्तः सानन्दाः सकुशलाः सन्ति। हर्षस्य विषयः यत् भवान् द्वादश कक्षायां प्रथम स्थानम् प्राप्तवान्। अस्माकं परिवारः भवतां सेवायां सप्रेम शुभकामना प्रेषयति, कामयते च भवतः उत्तरोत्तरं समुन्नतिम्।।

धन्यवादः

भवदीयः मित्रम्
संजयः

४. जन्मदिवसोत्सवस्य आमन्त्रणम्
(जन्मदिन के उत्सव का आमन्त्रण-पत्र)

मान्याः
नमोनमः,
महता हर्षेण सूचयामि यत् मम पुत्रस्य सार्थकस्य प्रथमजन्मदिवसः २५/१०/२०…..दिनाङ्क रविवासरे समायोजितः अस्ति।

कृपया अवसरोऽस्मिन् अवश्यं समागत्य बालकाय स्वकीयं शुभाशीषं दत्वा कृतार्थयन्तु भवन्तः।

स्थानम्-महावीरनगरम्, मथुरा

दिनाङ्क-२५/१०/२०…..

समय-सायं ६ वादनतः ८ वादनपर्यन्तम्

विनम्रः
डॉ.संजय शर्मा

MP Board Solutions

५. प्रकाशकाय पुस्तका) पत्रम्
(प्रकाशक को पुस्तक के लिए पत्र)

सेवायाम्,
श्रीमन्तः व्यवस्थापकमहोदयाः
शिवलाल अग्रवाल एण्ड कम्पनी
उज्जैन, मध्यप्रदेशः

महोदयाः!
भवत्संस्थानतः प्रकाशिता “शिवलाल हाईस्कूल संस्कृत दिग्दर्शिका” मया दृष्टा। एतत्पुस्तकं सर्वविध-छात्रोपयोगी वर्तते इति मे मतम्। कृपया पुस्तकस्य एकां प्रतिं वी.पी.पी. द्वारा अधोलिखितस्थाने शीघ्रं प्रेषयन्तु भवन्तः।

दिनाङ्क-२०/०८/२०…..

भवदीया
रेनू उपाध्यायः
हनुमान्नगरम्
मुरैना (मध्यप्रदेशः)

MP Board Class 10th Sanskrit Solutions