MP Board Class 10th Sanskrit अपठित-अवबोधन प्रकरण

MP Board Class 10th Sanskrit अपठित-अवबोधन प्रकरण

निर्देश-अपठित गद्यांश पर आधारित संस्कृत में प्रश्नों के उत्तर लिखते समय निम्नलिखित बातों पर अवश्य ध्यान देना चाहिए-
(१) अपठित गद्यांश में जिस विषय का वर्णन है उसका ठीक-ठीक अर्थ समझना आवश्यक है।
(२) गद्यांश को ध्यान से दो-तीन बार अवश्य पढ़ना चाहिए।
(३) तत्पश्चात् पूछे गये प्रश्नों को ध्यान से पढ़ना चाहिए।
(४) पूछे गये प्रश्न का उत्तर गद्यांश के किस वाक्य में है, इसको ध्यान देना चाहिए।
(५) ‘शीर्षक’ का सम्बन्ध प्रायः सम्पूर्ण गद्यांश से होना चाहिए।
(६) प्रश्न जिस वाच्य में हो उत्तर भी उसी वाच्य में देना चाहिए।

१. जननी जन्मभूमिश्च स्वर्गादपि गरीयसी। जन्मभूमिः स्वर्गात् उत्कृष्टतरा अस्ति। सा लोकानां शरणदायिनी, विविधखोद्यपदार्थ-प्रदायिनी, सर्वव्यवहाराणं लीलाभूमिः च अस्ति। वैदिकः ऋषिः कथयति-माता भूमिः पूत्रोऽहं पृथिव्याः। वयं राष्ट्रभावां, राष्ट्रियचरित्रं, त्यागभावनां विना राष्ट्रस्य संरक्षणं कर्तुं न पारयामः। पैरस्परक्यभावनां विना राष्ट्र कदापि समृद्ध न भवति। अतः अस्माभिः स्वार्थं परित्यज्य देशस्य देशवासिनां च सेवा सततं करणीया।

MP Board Solutions

उपर्युक्तगद्यांशं पठित्वा अधोलिखितप्रश्नानाम् उत्तराणि लिखत-
(१) जन्मभूमिः कस्मात् गरीयसी?
(२) ‘माताभूमिः’ इति कः कथयति?
(३) अस्य गद्यांशस्य सारं लिखत?
(४) स्वर्गात् शब्दे का विभक्तिः अस्ति?
उत्तर-
(१) जन्मभूमिः स्वर्गादपि गरीयसी।
(२) माताभूमिः’ इति वैदिकः ऋषिः कथयति।
(३) अस्य गद्यांशस्य सारः यत् अस्माभिः देशस्य देशवासिनां च सेवा सततं करणीया।
(४) पञ्चमी विभक्तिः।

२. शरीरं धर्मस्य प्रथमं साधनम् अस्ति-‘शरीरमाद्यं खलु धर्मसाधनम्’। शरीरस्य आरोग्यं व्यायामेन सिध्यति। यः व्यायाम करोति तस्य प्राणशक्तेः आपदः स्वयमेव दूरं गच्छन्ति। व्यायामेन शरीरे शुद्धरक्तसञ्चारः भवति। इन्द्रियाणि सुस्थानि स्वस्थानि च भवन्ति। जठराग्निः दीप्तः भवति। परिवृद्धम् उदरं सङकोचं गच्छति। मस्तिष्कम् उर्वरं भवति। अस्मिन् लोके जनैः वयोऽनुसारं कोऽपि व्यायामः अवश्यं करणीयः।

उपर्युक्तगद्यांशं पठित्वा प्रश्नानामुत्तराणि लिखत-
(१) अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
(२) धर्मस्य प्रथमं साधनं किम् अस्ति?
(३) कीदृशम् उदरं व्यायामेन सङ्कोचं गच्छति?
(४) अस्य गद्यांशस्य सारं लिखत।
(५) गच्छन्ति इति पदे का धातुः अस्ति?
उत्तर-
(१) व्यायामस्य लाभाः।
(२) धर्मस्य प्रथमं साधनं शरीरम् अस्ति।
(३) परिवृद्धम् उदरं व्यायामेन सङ्कोचं गच्छति।
(४) अस्य गद्यांशस्य सारः यत्-‘सर्वैः जनैः व्यायामः अवश्यं करणीयः।
(५) ‘गच्छन्ति’ इति पदे ‘गम्’ धातुः अस्ति।

MP Board Solutions

३. संस्कृतं भारतस्य गौरवमयी भाषा अस्ति। एषा मानवमात्रस्य कल्याणं करोति विश्वबन्धुत्वं च प्रसारयति अस्याः साहित्यं विशालं वर्तते। संस्कृतम् पठित्वा जनाः गौरवम् अनुभवन्ति। संस्कृतदिवसः रक्षाबन्धनदिवसे भवति।

उपर्युक्तगद्यांशं पठित्वा प्रश्नानामुत्तराणि लिखत
१. अस्य गद्यांशस्य शीर्षकं लिखत?
२. संस्कृत किं प्रसारयति?
३. संस्कृतसाहित्यं कथं वर्तते?
४. संस्कृतदिवसः कदा भवति?
उत्तर-
(१) अस्य गद्यांशस्य शीर्षकं अस्ति-संस्कृतभाषा।
(२) संस्कृतं विश्वबन्धुत्व प्रसारयति।
(३) संस्कृतसाहित्यं विशालं वर्तते।
(४) संस्कृतदिवसः रक्षाबन्धनदिवसे भवति।

MP Board Class 10th Sanskrit Solutions